वाचस्पत्यम्
विज्जल || न० व्यध—ताडे क्विप् विदा जडयति जडि—अच डस्य लः । १ वाणे त्रिका० । २ विजिले हेमच० ।
शब्दकल्पद्रुमः
विज्जलं || क्ली बाणम् । यथा, —
“पत्रवाहो विकर्षोऽथ तीरं विज्जलशायके । लोहनालस्तु नाराचः प्रसरः काण्डगोचरः ॥” इति त्रिकाण्डशेषः ॥ त्रि, विजिलम् । इति हेमचन्द्रः ॥ (यथा, बृहत्संहितायाम् । ५५ । २९ । “श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः । अङ्कोल्लविज्जलाद्भि- श्छायायां सप्तकृत्वेवम् ॥”)