वाचस्पत्यम्
विट्खदिर || पु० विडिव दुर्गन्धः खदिरः । (गुयेवावला) वृक्षे अमरः ।
शब्दकल्पद्रुमः
विट्खदिरः || पुं, (विड्वत् दुर्गन्धः खदिरः ।)
विष्ठावद्दर्गन्धखदिरः । गुयेवावला इति भाषा ॥ तत्पर्य्यायः । अरिमेदः २ । इत्यमरः ॥ हरि- मेदः ३ असिमेदः ४ । इति शब्दरत्नावली ॥ दरिमेदः ५ कालस्कन्धः ६ अरिमेदकः ७ । अस्य गुणाः । कषायत्वम् । उष्णत्वम् । मुख- दन्तगदास्रकण्डूविषश्लेष्मकृमिकुष्ठव्रणग्रहनाशि- त्वञ्च । इति भावप्रकाशः ॥ राजनिर्घण्टोक्त- गुणपर्य्यायौ अरिमेदशब्दे द्रष्टव्यौ ॥