संस्कृत-शब्दकोशः

विट्चर विट्सारिका

विट्पति

वाचस्पत्यम्

विट्पति ||‍ पु० विश्यते विश—क्विप् विशः कन्यायाः पतिः । जामातरि जटाधरः ।


शब्दकल्पद्रुमः

विट्पतिः || पुं, (विषः कन्यायाः पतिः ।)
जामाता । इति जटाधरः ॥ (यथा, मनुः । ३ । १४८ । “मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोज- येत् ॥” * ॥
वैश्यानां पतिः । यथा, भागवते । ४ । २३ । ३२ । “वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमता- मियात् ॥” “विशां पश्वादीनां वैश्यादीनां वा पतिः स्यात् ।” इति तट्टीका ॥)



Correction: