वाचस्पत्यम्
विड || आक्रोशे भ्वा० पर० सक० सेट् । वेडति अवेडीत् ।
वाचस्पत्यम्
विड || न० विड—क । लवणभेदे अमरः । “विडं सक्षारमूर्ध्वाधःकफवातानुलोमनम्” ऊर्ध्वं कफ- मधोवातं सञ्चारयतीत्यर्थः । “दीपनं लथु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्ध्यानाहविष्टम्भकृदगौ- रवशूलनुत्” भावप्र० ।
शब्दकल्पद्रुमः
विड || आक्रोशे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
वेडति शत्रुं बली । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
विडं || क्ली (विड आक्रोशे + इगुपधेति कः ।)
लवणविशेषः । विट्लुण इति भाषा ॥ यथा, —
“पाक्यं विडञ्च कृतके द्वयम् ।” इत्यमरः ॥ द्बे समुद्रतीरासन्नभवां लवणमृत्तिकां पाचयित्वा निष्पादिते लवणे । विट्लवणे । इति केचित् । कृतके कृत्रिमे । पाक्यविड्लवणयोर्भेदेऽपि कृत- कत्वात् ऐक्यमिति स्वामी ॥ पच्यते इति पाक्यम् । डु पच ञषौ पाके हसृय्वासोरितिघ्यण् चजोर्घि- तीति कः पाकेन निष्पादितमिति ष्ण्यो वा । वेडति भिनत्ति विडं विडाक्रुशि इजुङत्वात् कः । इति भरतः ॥ तत्पर्य्यायः । विड्गन्धम् २ काललवणम् ३ विड्लवणम् ४ । इति रत्न- माला ॥ द्राविडकम् ५ खण्डम् ६ कृतकम् ७ क्षारम् ८ आसुरम् ९ सुपाक्यम् १० खण्ड- लवणम् ११ धूर्त्तम् १२ कृत्रिमकम् १३ । अस्य गुणाः । उष्णत्वम् । दीपनत्वम् । रुच्यत्वम् । वाताजीर्णशूलगुल्ममेहनाशित्वश्च । इति राज- निर्घण्टः ॥ अपि च । “विडं सक्षारमूर्द्ध्वाधः कफं वातानुलोमनम् ॥ ऊर्द्ध्वं कफमधो वातं सञ्चारयेदित्यर्थः । दीपनं लधु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्धानाहविष्टम्भकृदगौरवशूलनुत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “विडं लवणमुत्क्लेदि वह्नेर्बलविवर्द्धनम् । मलवातामविष्टम्भशूलाटोपविबन्धनुत् ॥” इति राजवल्लभः ॥