वाचस्पत्यम्
विडाल || पुंस्त्री विड—कालन् । स्वनामख्याते १ पशुभेदे अमरः स्त्रियां ङीष् । २ नेत्रपिण्डे मेदि० ३ नयनौषधभेदे च भावप्र० ४ विदार्य्यां स्त्री राजनि० ङीष् । संज्ञायां कन् । हरिताले न० । स्वार्थे क । विडाले पशौ पु० स्त्री० । संज्ञायां कन् । नेत्रौषधभेदे तद्विधिः भावप्र० उक्तो यथा “विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्जिते । तस्य मात्रा परिज्ञेया मुखालेपविधानवत्” । मुखालेपस्तु “अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठकः । मध्यमस्तु त्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत्” । स्थितिकालोऽपि तस्योक्तो यावत् कल्को न शुष्यति । तेनापि गुणहीनः स्यात्तथा दूषयति त्वचम्” । स च “यष्टीगैरिकसिन्धूत्थ- दार्वीतार्क्ष्यैः समांशकैः । जलपिष्टैर्वहिर्लेपः सर्वनेत्रा मयापहः” । तार्क्ष्यं रसाञ्जनम् । “रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि । वचाहरिद्राविश्वैर्वा तथा ना- गरगैरिकैः” ।
शब्दकल्पद्रुमः
वि(बि)डालः || पुं, (विड आक्रोशे + “तमिविशि- विडीति ।” उणा० १ । ११७ । इति कालन् ।)
नेत्रपिण्डः । इति मेदिनी । ले, १३३ ॥ नेत्रौषध- विशेषः । इति भावप्रकाशः ॥ स्वनामख्यात- पशुः । विल्ली इति हिन्दीभाषा । तत्पर्य्यायः । ओतुः २ मार्ज्जारः ३ वृषदंशकः ४ आखुमुक् ५ । इत्यमरः ॥ विरालः ६ विलालः ७ । इति तट्टीका ॥ दीप्ताक्षः ८ नक्तञ्चरी ९ जाहकः १० विडारकः ११ । इति शब्दरत्नावली ॥ त्रिशङ्कुः १२ जिह्वापः १३ मेनादः १४ सूचकः १५ । इति जटाधरः ॥ भूषिकारातिः १६ शालावृकः १७ मायावी १८ दीप्तलोचनः १९ । इति राज- निर्घण्टः ॥ (यथा, मनुः । ११ । १६० । “विडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नञ्च पिबेद्ब्रह्मसुवर्च्चलाम् ॥”)