वाचस्पत्यम्
वि(डो)डौजस् || पु० विष—क्विप् विट् व्यापकमोजो यस्य पृषो० वा औत् । इन्द्रे अमरः ।
शब्दकल्पद्रुमः
विडौजाः || [स्] पुं, (विडं आक्रोशि शत्रुद्बेषम- सहिष्णु ओजो यस्य ।)
इन्द्रः । इति भरतीय- द्बिरूपकोषः ॥ (यथा, रघौ । ३ । ५९ । “रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥”)