संस्कृत-शब्दकोशः

वितर्धि वितंस

वितल

वाचस्पत्यम्

वितल ||‍ न० विशेषेण तलम् । पातालभेदे शब्दर० । पाताल- शब्दे ४१९९ पृ० दृश्यम् । २ तलसून्ये त्रि० ।


शब्दकल्पद्रुमः

वितलं || क्ली (विशेषेण तलम् ।)
पातालभेदः ॥ यथा, —
“अतलं नितलञ्चैव वितलञ्च गभस्तिमत् । तलं सुतलपाताले पाताला हि तु सप्त वै ॥” इति शब्दरत्नावली ॥ (अस्य विवरणं यथा, देवीभागवते । ८ । १९ । ८ — १२ । “द्बितीयविवरस्यात्र वितलस्य निबोधत । भूतलाधस्तले चैव वितले भगवान् भवः ॥ हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः । प्रजापतिकृतस्यापि सर्गस्य वृंहणाय च ॥ भवान्या मिथुनीभूय आस्ते देवाधिपूजितः । भवयोर्वीर्य्यसंभूता हाटकी सरिदुत्तमा ॥ समिद्धो मरुता वह्निरोजसा पिबतीव हि । तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ॥ दैत्याङ्गनाभूषणार्हं सदा सन्धारयन्ति हि ॥”)



Correction: