वाचस्पत्यम्
वित्त || त्यामे अद० चु० उभ० सक० सेट् । वित्तयति ते अवि- वित्तत् त वित्तापयतीत्यपि ।
वाचस्पत्यम्
वित्त || न० वित्त्यते त्यज्यते वित्त—घञ् । १ धने अमरः । विद- क्त वा दस्य न नः । २ ख्याते, ३ विचारिते ४ ज्ञाते हेमच० ५ लब्धे च त्रि० ।
शब्दकल्पद्रुमः
वित्तं || क्ली (विद + क्तः । “वित्तो भोगप्रत्यययोः ।” ८ । २ । ५८ । इति साधुः ।)
धनम् । इत्य- मरः ॥ (यथा, मनुः । ८ । ३६ । “अनृतन्तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ॥”)
शब्दकल्पद्रुमः
वित्त || त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।)
वित्तयति । वित्ता- पयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वित्तः || त्रि (विद् + क्तः । “नुदविदेति ।” ८ । २ । ५६ । इति पक्षे नत्वाभावः ।)
विचारितः । विज्ञातः । इत्यमरः ॥ लब्धः । इति तट्टीकायां रामाश्रमः ॥ (विख्यातः । अत्र वित्तो भोग- प्रत्यययोः इति साधुः । यथा च पाणिनिः । “तेन वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ॥)