वाचस्पत्यम्
वित्ति || स्त्री विद—क्तिन् । १ ज्ञाने २ लाभे ३ विचारे च मेदि० ।
शब्दकल्पद्रुमः
वित्तिः || स्त्री (विद् + क्तिन् ।)
विचारः । लाभः । (यथा, वाजसनेयसं हितायाम् । १८ । १४ । “मे वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥”)
सम्भावना । इति मेदिनी । ते, ५९ ॥ ज्ञानम् । इति हेमचन्द्रः ॥