वाचस्पत्यम्
विथुर || पु० विथ—उरच् किच्च । १ चौरे २ राक्षसे च उणा० ।
शब्दकल्पद्रुमः
विथुरः || पुं, (व्यथते इति । व्यथ भयचलनयोः । “व्यथेः संप्रसारणं किच्च ।” उणा० १ । ४० । इति उरच् । सच कित् सम्प्रसारणञ्च धातोः ।)
चौरः । राक्षसः । इत्युणादिकोषः ॥ (स्त्री, भर्त्तृवियुक्ता नारी । यथा, ऋग्वेदे । १ । ८७ । ३ । “प्रैषामज्मेषु विथुरेव रेजते भूमिः ॥ “विथुरेव यथा भर्त्रा वियुक्ता जाया राजोपद्र- वादिषु सत्सु निरालम्बा सती कम्पते तद्वत् ।” इति तद्भाष्ये सायणः ॥)