संस्कृत-शब्दकोशः

विथ्या विदग्ध

विद

वाचस्पत्यम्

विद ||‍ ज्ञाने अदा० पर० सक० सेट् । वेत्ति० वेद । अवेदीत् ।


वाचस्पत्यम्

विद ||‍ पु० विद—क । १ पण्डिते अमरः २ बुधग्रह च ज्यो० ।


वाचस्पत्यम्

विद ||‍ भावे, दिवा० आ० वक० विनिट् । विद्यते आवित्त ।


वाचस्पत्यम्

विद ||‍ मीमांसे रुधा० आ० सक० अनिट् । विन्ते अवित्त ।


वाचस्पत्यम्

विद ||‍ लाभे तु० उभ० सक० अनिट् मुचादि । विन्दति ते । ऌदित् अविदत् अवित्त । विनेद विविदे । विन्नं वित्तम् ।


वाचस्पत्यम्

विद ||‍ सुखाद्यनुभवे आख्याने, वादे च सक० वासे अल० चु० उभ० सेट् । वेदयति ते अवीविदत् त ।


शब्दकल्पद्रुमः

विद || ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।)
ऌ, अविदत् । प श ञ, विन्दति विन्दते । औ, वेत्ता । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विद || क ङ ञ चेतनाख्यानवासवादे । इति कवि- कल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-च-सक०- वासे स्थैर्य्ये च अक०-सेट् ।)
चेतना ज्ञानम् । वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरः जानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या- तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः । वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयति वेदयते । केचित्तु वादं न पठन्ति । चेतनास्थाने वेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः । इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमाना जितां सपत्नेन निवेदयिष्यत इति निवेदनं करो- तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विद || ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥ (रुधा०-आत्म०-सक०-अनिट् ।)
मीमांसो विचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ, वेत्ता । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विदः || पुं, पण्डितः । विदधातोः कर्त्तरि कप्रत्ययेन निष्पन्नः ॥


शब्दकल्पद्रुमः

विद || य ङ औ भावे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।)
भावः सत्ता स चेह विद्यमानतैव । य ङ, विद्यते विष्णुः । औ, वेत्ता । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विद || ल मतौ । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।)
ल, वेत्ति । इति दुर्गा- दासः ॥



Correction: