संस्कृत-शब्दकोशः

विदत् विदर

विदथ

वाचस्पत्यम्

विदथ ||‍ पु० विदाकथच् । १ योगिनि, २ कृतिनि च मेदि० ।


शब्दकल्पद्रुमः

विदथः || पुं, (वेत्तीति । विद + “रुविदिभ्यां ङित् ।” उणा० ३ । ११६ । इति अथः । सच ङित् ।)
योगी । कृती । इति मेदिनी । थे, २४ ॥ (यज्ञः । इति निघण्टुः । ३ । १७ । “विद ज्ञाने विद विचारणे विदॢलाभे विद सत्तायाम् । ‘रुदि- विदिभ्यां ङित् ।’ इति अथप्रत्ययः । ज्ञायते हि यज्ञः । लभते हि दक्षिणादिरत्र । विचार्य्यते हि विद्वद्भिः । भावयत्यनेन फलम् ॥” इति तत्र देवराजयज्वा ॥ * ॥
वेदितव्ये, त्रि । यथा, ऋग्वेदे । ३ । २७ । ७ । “होता देवो अमर्त्यः पुरस्तादेति मायया । विदथानि प्रचोदयन् ॥”)



Correction: