वाचस्पत्यम्
विदा || स्त्री विद—अङ् । १ ज्ञाने २ बुद्धौ च मेदि० ।
शब्दकल्पद्रुमः
विदा || स्त्री (विद् ज्ञाने + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) ज्ञानम् । बुद्धिः । इति मेदिनी । दे, १४ ॥