संस्कृत-शब्दकोशः

विदारु विदिक्चङ्ग

विदाहिन्

वाचस्पत्यम्

विदाहिन् ||‍ न० वि + दह—णिनि । दाहजनकद्रव्ये ।


शब्दकल्पद्रुमः

विदाहि || [न्] क्ली, (विदहतीति । वि + दह + णिनिः ।)
दाहजनकद्रव्यम् । अस्य गुणौ । पित्तमृत्युकारित्वे । इति राजवल्लभः ॥ (दाह- जनकमात्रे, त्रि । यथा, गीतायाम् । १७ । ९ । “कट्वम्ललवणात्युष्णतीक्ष्ण रूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥”)



Correction: