वाचस्पत्यम्
विदूरथ || पु० १ द्वादशमनोः पुत्रभेदे २ पौरवे नृपभेदे विष्णुपु० ३२ अ०
शब्दकल्पद्रुमः
विदूरथः || पुं, राजविशेषः । यथा, —
“मनोस्तु दक्षपुत्त्रस्य द्वादशस्यात्मजान् शृणु । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ मित्रवान् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् । मित्रवाहः सवर्च्चाश्च दक्षपुत्त्रमनोः सुताः ॥” इति गारुडे ८७ अध्यायः ॥ (कुरुपुत्त्रः । यथा, महाभारते । १ । ९५ । ३९ — ४० । “कुरुः खलु दाशार्हीमुपयेमे सुभाङ्गीं नाम तस्यामस्य जज्ञे विदूरथः । विदूरथस्तु माधवी- मुपयेमे संप्रियां नाम तस्यामस्य जज्ञे अनश्वा नाम ॥” * ॥
वृष्णिवंशीयानामन्यतमः । यथा, भागवते । ९ । २४ । १८ । “पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥” अस्य पूत्त्रः शूरः । यथा, तत्रैव । ९ । २४ । २६ । “शूरो विदूरथादासीत् भजमानस्तु तत्सुतः । शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः ॥”)