वाचस्पत्यम्
विदेश || पु० विभिन्नो देशः । देशान्तरे “को विदेशः सविद्या- नाम्” चाणक्यः ।
शब्दकल्पद्रुमः
विदेशः || पुं, (विप्रकृष्टो देशः ।)
परदेशः । देशा- न्तरम् । यथा । अशौचकालाभ्यरे विदेशस्था- शौचश्रवणे शेषाहैः शुद्धिः । इति शुद्धितत्त्वम् ॥ अन्यच्च । “कोऽतिभारः समर्थानां किं दूरं व्यवसायि- नाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥” इति चाणक्ये ॥ अन्यत् देशान्तरशब्दे द्रष्टव्यम् ॥