संस्कृत-शब्दकोशः

विद्यादेवी विद्याधर

विद्याधन

वाचस्पत्यम्

विद्याधन ||‍ न० विद्यया लब्धं धनम् । विद्यया लब्धे “उप- न्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनन्तु त- द्विद्यात्” इति, “शिष्यादार्त्विज्यतः प्राप्तं सन्दिग्ध- प्रश्ननिर्णयात् । अज्ञानसंशयोच्छेदाल्लब्धं प्राध्ययनात्तुयत् । विद्याधनन्तु तत् प्राहुः” इति “शिल्पिष्वपि हि धर्मोऽयम्” इत्युपक्रम्य “परं निरस्य वादेन विद्यया द्यूतपूर्वकम्” । विद्याधनं तु तद्विद्यादित्युक्ते च धने । विद्याधनविभागे विशेषः “विद्याधनं तु यद् यस्य तत्त- स्यैव धमं भवेत । कुटुम्बं विभृयाद् भ्रातुर्यो विद्या- मधिगच्छतः । भागो यवीयसां तत्र यदि विद्यानुपालिनः” दायमा० । दायतत्त्वे तु “भागं विद्याधनात्तस्मात् स लभेतेता- श्रुतो सन्” इति पाठः । दायभा० नारदवाक्ये “देयं वैद्येन तद्धनम्” पाठः । “परभक्तोपयोगेन विद्या प्राप्ताऽन्यतस्तु या । तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते” दाय० त० कात्यायनः । “अन्यतः पितृमातृकुलव्यतिरिक्तात्” रघु० । “नाविद्यानां तु वैद्येन देयं विद्याधनात् कचित् । समविद्याधिकानां त देयं वैद्येन ताजम्” “कुले विनीतविद्यानां भ्रातणां पितृतोऽपि वा । शौर्य्यप्राप्तं तु यद्वित्तं तद्विभाज्य वृहस्पतिः” दायत० ।


शब्दकल्पद्रुमः

विद्याधनं || क्ली विद्यया अर्ज्जितधनम् । यथा । विद्याधनमाह कात्यायनः । “उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्ब्बकम् । विद्याधनन्तु तद्विद्यात् विभागे न नियोजयेत् ॥ शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनात्तु यत् ॥ विद्याधनन्तु तत् प्राहुर्विभागे न प्रयोजयेत् । शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं भवेत् ॥ परं निरस्य यल्लब्धं विद्यया द्यूतपूर्ब्बकम् । विद्याधनन्तु तद्बिद्यात् न विभाज्यं बृहस्पतिः ॥” यदि भवान् भद्रमुपन्यस्यति तदा भवत एव मयैतद्देयमिति पणितं यत्रोपन्यासं निस्तीर्य्य लभते तन्न विभाज्यम् । शिष्यादध्यापितात् आर्त्विज्यतः यजमानाद्दक्षिणया लब्धं धनं न प्रतिग्रहलब्धं वेतनरूपत्वात्तस्य । तथा यत्कि- ञ्चिद्बिद्याप्रश्ने निस्तीर्णेऽपणितं यदि कश्चित् परितोषाद्ददाति । तथा यो ह्यस्मिन् शास्त्रार्थे अस्माकं संशयमपनयति तस्मै धनमिदं ददा- मीत्युपस्थितस्य संशयमपनीय यल्लब्धम् । तथा वादिनोर्व्वादसन्देहे न्यायकरणार्थमागतयोः सम्यङ्निरूपणे यल्लब्धं षष्ठांशादिकम् । तथा शास्त्रादिप्रकृष्टज्ञानं सम्भाव्य यत् प्रतिग्रहा- दिना लब्धम् । तथा शास्त्रज्ञानविवादे अन्य- त्रापि यत्र कुत्रचिदन्योऽन्यज्ञानविवादे निर्ज्जित्य यल्लब्धम् । तथैकस्मिन् देये बहूनामुपप्लवे येन प्रहृष्टात् यल्लब्धम् । तथा शिल्पादिविद्यया चित्रकरसुवर्णकारादिभिर्यल्लब्धम् । तथा द्यूते- नापि परं निर्ज्जित्य यल्लब्धं तत् सर्व्वमविभाज्य- मितरैः । तस्माद्यया कयाचित् विद्यया लब्ध- मर्ज्जकस्यैव तन्न इतरेषामिति । प्रदर्शनार्थन्तु कात्यायनेन विस्तारितमिति दायभागः ॥ नारदः । “कुटुम्बं विभृयाद्भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन् ॥” चिभृयादित्येकवचननिर्द्देशान्न बहवः । यदि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीरायासाभ्यां संवर्द्धयति तदा तद्विद्यार्ज्जितधने तस्याधिकारः । अश्रुतो मूर्खः । कल्पतरुमिताक्षरादीपकलिकासु कात्यायनः । “परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते ॥” अन्यतः पितृमातृकुलव्यतिरिक्तात् । अत्र विशेषयति स एव । “नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥” तत्रोच्चरितविद्यापदमुभाभ्यां सम्बध्यते । तेन समविद्याधिकविद्यानां भागो न तु न्यूनविद्या- विद्ययोः । वैद्येन विदुषा । पुनर्विशेषयति । “कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥” कुले स्वकुले पितामहपितृव्यादिभ्यः पितृत एव वा शिक्षितविद्यानां भ्रातॄणां यद्बिद्याशौर्य्यप्राप्तं धनं तद्विभजनीयमिति कल्पतरुरत्नाकरौ । इति दायतत्त्वम् ॥



Correction: