संस्कृत-शब्दकोशः

विद्युन्माला विद्र

विद्युन्मालिन्

वाचस्पत्यम्

विद्युन्मालिन् ||‍ पु० राक्षसभेदे भाग० १ । ७ अ० । १ रामायणप्रसिद्धे २ राक्षसभेदे च ।


शब्दकल्पद्रुमः

विद्युन्माली || [न्] पुं, राक्षसविशेषः । यथा । विद्युन्माली नाम कश्चिद्राक्षसो माहेश्वरः तस्मै रुद्रेण सौवर्णं विमानं दत्तं ततोऽर्कस्य पृष्ठतो भ्रमन् विमानदीप्त्या रात्रिं विलोपितवान् ततोऽर्केण निजतेजसा द्रावयित्वा तद्विमानं पातितं तच्छ्रुत्वा कुपिते रुद्रे भयादर्कः पराद्र- वत् ततो रुद्रस्य क्रूरया दृष्ट्या दन्दह्यमानः पतन् वाराणस्यां पतितो लोलार्कनाम्ना विख्यातः । इति श्रीभागवते १ स्कन्धे ७ अध्याय- टीकायां श्रीधरस्वामी ॥ अपि च । “धर्म्मस्य पुत्त्रो बलवान् सुषेण इति विश्रुतः । स विद्युन्मालिना सार्द्धं अयुध्यत महाकपिः ॥” इति रामायणे युद्धकाण्डे ४३ सर्गः ॥



Correction: