वाचस्पत्यम्
विधुत || त्रि० वि + धु—क्त १ कम्पिते । २ त्यक्ते च अमरः ।
शब्दकल्पद्रुमः
विधुतः || त्रि (वि + धु + क्तः ।)
त्यक्तः । इत्य- मरः ॥ (यथा, भागवते । ९ । १९ । २५ । “स तत्र निर्म्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः । परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥”)
कम्पितश्च ॥