वाचस्पत्यम्
विध्वंस || पु० वि + ध्वन्स घञ् । नाशे ।
शब्दकल्पद्रुमः
विध्वंसः || पुं, (वि + ध्वंस + घञ् ।)
विनाशः । यथा, तिथ्यादितत्त्वे । “हरिते रोगोऽनुतापः शस्यानामीतिभिश्च विध्वंसः । कपिले शीघ्रगसत्त्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥” (अपकारः । यथा, किराते । ३ । १६ । “विधाय विध्वं समनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥”)