वाचस्पत्यम्
विनयस्थ || त्रि० विनये तिष्ठति स्था—क । वचनग्राहिणि आ- यत्ते हेमच० ।
शब्दकल्पद्रुमः
विनयस्थः || त्रि (विनये तिष्ठतीति । स्था + कः ।) आज्ञाकारी । तत्पर्य्यायः । विधेयः २ आश्रवः ३ वचनस्थितः ४ वश्यः ५ प्रणेयः ६ । इति हेमचन्द्रः । ३ । ९६ ॥