वाचस्पत्यम्
विना || अव्य० वि + ना । १ वर्ज्जने २ अन्तरंणेत्यर्थे च । एतद्योगे २ द्वितीया तृतीया पञ्चमी च ।
शब्दकल्पद्रुमः
विना || व्य, (वि + “विनञ्भ्यां नानाञ्चौ न सह ।” ५ । २ । २७ । इति ना ।)
वर्ज्जनम् । तत्पर्य्यायः । पृथक् २ अन्तरेण ३ ऋते ४ हिरुक् ५ नाना ६ । इत्यमरः ॥ (शब्देनानेन योगे “पृथग्- विनेति ।” २ । ३ । ३२ । इत्यनेन तृतीया पञ्चमी च स्यात् । एवं “पृथद्विना नानाभिरिति योगविभागो द्वितीयार्थः ॥” इति काशिकोक्त्या द्वितीयापि । यथा, तत्रैव । “विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान्दोषान् केनेमौ पातितौ द्रुमौ ॥” तृतीयाप्रयोगो यथा, रघुवंशे २ । १४ । “शशाम वृष्ट्यापि विना दवाग्निः ॥” पञ्चमीप्रयोगो यथा, सांख्यकारिकायाम् । ४१ । “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया । तद्वद्विना विशेषै- र्न तिष्ठति निराश्रयं लिङ्गम् ॥”)