संस्कृत-शब्दकोशः

विनाडिका विनायिका

विनायक

वाचस्पत्यम्

विनायक ||‍ पु० वि + नी—ण्वुल् । १ गणेशे २ बुद्धे अमरः ३ विघ्ने ४ गुरौ च । ६ त० । ५ गरुडे मेदि० । ६ गरुडपत्न्यां स्त्री शब्दमा० टाप् कापि अत इत्त्वम् । विनायकश्च कर्मविघ्नसिद्ध्यर्थमीश्वरेण नियुक्तः वेवभेदः यथोक्तं याज्ञवलक्येन “विनायकः कर्मविघ्नसिद्ध्यर्थं वि- नियोजितः । गणानामाधिपत्य च रुद्रेण ब्रह्मणा तथा” “कर्मणां पुरुषार्घसाधनानां विघ्नसिद्ध्यर्थं स्वरूपफलसाध नत्वविघातसिद्ध्यर्घं नियोजितो नियुक्तः” मिता० । तेनोपसृष्टस्य लक्षणान्याह म एव “तेनोपसृष्टो य- स्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डाःश्च पश्यति । कपायवासमश्चैव क्रव्यादांश्चाधिरो- हति । अन्त्यजैर्गर्दमैरुष्ट्रैः सहैकत्रावतिष्ठति । व्रजत्यपि तथात्मानं मन्यतेऽनुगतं परैः” तस्य प्रत्यक्षलक्षणान्याह स एव “विसना विकलारम्भः संसीदत्यनिमित्ततः । तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भर्त्तारमपत्यं नर्भमकना । आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिगलाभं न चाप्नोति कृषि- ञ्चापि कृषीवलः” तन्निवारणविघिश्च तत्रोक्तो दृश्यः । “विनायका विघ्नकारा महोग्राः” रक्षामन्त्रः ।


शब्दकल्पद्रुमः

विनायकः || पुं, (विशिष्टो नायकः ।)
बुद्धः । गणेशः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ३० । ५५ । “अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । दृष्टप्रभावो वरदो देवदेवो विनायकः ॥”)
गरुडः । विघ्नः । (यथा, हरिवंशे । १८१ । ६५ । “राक्षसाश्च पिसाचाश्च भूतानि च विना- यकाः ॥”)
गुरुः । इति मेदिनी । के, ११२ ॥ * ॥
विना- यकगणो यथा, —
“गाङ्गेयो विष्णवश्चैव द्बौ विज्ञेयौ विनायकौ ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
विनायकस्योत्पत्तिर्यथा, — प्रजापाल उवाच । “कथं गणपतेर्जन्म मूर्त्तिमत्त्वञ्च सत्तम ! । एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥ महातपा उवाच । पूर्ब्बं देवगणाः सर्व्वे ऋषयश्च तपोधनाः । कार्य्यारम्भे यथा प्राप्ताः सिद्धिं ते च न संशयः ॥ सन्मागांवस्थिषु यथा सिध्यन्ते विघ्नतः क्रियाः । असत्कारिषु सर्व्वेषु तद्बदेवमविघ्नतः ॥ ततो देवाः सपितरश्चिन्तयामासुराजसा । असत्कार्य्येषु विघ्नार्थे सर्व्व एवाभ्यमन्त्रयन् ॥ ततस्तेषा तदा मन्त्रं कुर्व्वतां त्रिदिवौकसाम् । बभूव बुद्धिर्गमने रुद्रं प्रति महामते ॥ ते तत्र रुद्रमामन्त्र्य कैलासनिलयं गुरुम् । ऊचुः सविनयं सर्व्वे प्रणिपातपुरःसरम् ॥ देवा ऊचुः । देवदेव महादेव शूलपाणे त्रिलोचन । विघ्नार्थमविशिष्टानां उत्पादयितुमर्हसि ॥ एवमुक्तस्तदा देवैर्भवः परमया मुदा । उमां निरीक्षयामास चक्षुषानिमिषेण ह ॥ देवानां सन्निधौ तस्य पश्यतो मां महात्मनः । चिन्ताभूद्व्योम्नि मूर्त्तेभ्यो दृश्यते केन हेतुना ॥ पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च । तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ॥ आकाशस्य कथं नेति मत्वा देवो जहास च । ज्ञानशक्तिः परान् दृष्ट्वा यद्दृष्टं व्योम्नि शम्भुना ॥ यच्चोक्तं ब्रह्मणा पूर्व्वं शरीरन्तु शरीरिणाम् । यच्चापि हसितं तेन देवेन परमेष्ठिना ॥ एतत्कार्य्यचतुष्केण पृथिव्यादिचतुर्ष्वपि । मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ॥ प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशम् । परमेष्ठिगुणैर्युक्तः साक्षाद्रुद्र इवापरः ॥ उत्पन्नमात्रो देवानां योषितः संप्रमोहयन् । कान्त्या दीप्त्या तथा मूर्त्त्या रूपेण च महात्मवान् ॥ तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः । उमा निमिषनेत्राभ्यां तमपश्यत भामिनी ॥ तं दृष्ट्वा कुपितो देवस्तीव्रकोपसमन्वितः । मत्वा कुमाररूपन्तु शोभनं मोहनं दृशाम् । ततः शशाप तं देवो गणेशं परमेश्वरः ॥ कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा । भविष्यति तथा सर्पैरुपवीतगतिर्ध्रुवम् ॥ एवं शशाप तं देवस्तीव्रकोपसमन्वितः । धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ॥ यथा यथासौ स शरीरमाद्यं धुनोति देवस्त्रिशिखास्त्रपाणिः । तथा तथा चाङ्गरुहाच्चकास जलं क्षितौ संन्यपतंस्तथान्ये ॥ विनायकानेकमुखा गजास्या- स्तमालनीलाञ्जनसन्निकाशाः । उत्तस्थुरुच्चैर्विविधास्त्रहस्ता- स्ततस्तु देवा मनसाकुलेन ॥ किमेतदित्यद्भुतकर्म्मकारी ह्येकः करोत्यप्रतिमं महच्च । कार्य्यं सुराणां कृतमेतदिष्टं भवेत्तथैतं परितं कुतस्तत् ॥ दिवौकसां चिन्तयतां तथा तु विनायकैः क्ष्मा क्षुभिता बभूव । चतुर्मखश्चाप्रतिमो विमान- मारुह्य खे वाक्यमिदं जगाद ॥ धन्यास्तु देवा सुरनायकेन त्रिलोचनेनाद्भुतरूपिणा च । अनुगृहीताः परमेश्वरेण सुरद्विषां विघ्नकृतां नतौ च । इत्येवमुक्त्वा प्रपितामहस्ता- नुवाच देवस्त्रिंशिखा स्त्रपाणिम् ॥ यस्ते विभो वक्त्रसमुद्भवः प्रभु- र्विनायका नाम वसन्त्विमेऽनुगाः । भवन्त्वथास्यात्मवरेण चाम्बरे त्वया च तुष्टस्तु शरीरचारी ॥ आकाशमेतद्वहुधा व्यवस्थितं त्वया चैको वदतां ते प्रयाताः । प्रभुर्भवत्वप्रतिमास्त्रपाणिना इमान् हि चास्त्रैः सुवरांश्च देहि ॥ इत्येवमुक्त्राभिगते पितामहे त्रिलोचनश्चात्मभवं जगाद । विनायको विघ्नकरो गजास्यो गणेशनामा तु भवस्य पुत्त्रः ॥ एते च सर्व्वे त्वपयान्तु भृत्या विनायकाः क्रूरदृशः प्रचण्डाः । उच्छुष्मदानादिविवृद्धदेहाः कार्य्येषु सिद्धिं प्रतिपादयन्तः ॥ भवांश्च वेदेषु तथा मखेषु कार्य्येषु चान्येषु महानुभावात् । अग्नेषु पूजां लभतेऽन्यथा च विनाशयिष्यस्यथ कार्य्यसिद्धिम् ॥ इत्येवमुक्तः परमेश्वरेण सुरैः समं काञ्चनकुम्भसंस्थैः । जलैस्तथासावभिषिक्तगात्रो रराज राजेन्द्रः विनायकानाम् ॥ दृष्ट्वाभिषिच्यमानं तु देवास्तं गणनायकम् । तुष्टुवुः प्रयताः सर्व्वे त्रिशूलास्त्रस्य सन्निधौ ॥ देवा ऊचुः । नमस्ते गजवक्त्राय नमस्ते गणनायक । विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल । नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित । सर्व्वदेवनमस्कारादविघ्नं कुरु सर्व्वदा ॥ एवं स्तुतस्तदा देवैर्महात्मा गणनायकः । अभिषिक्तस्तु रुद्रेण सोमस्यापत्यतां गतः ॥ एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिव । यतस्ततोऽयं महती तिथीनां परमा तिथिः ॥ एतस्यां यस्तिलान् भक्त्या भुक्त्वा गणपतिं नृप । आराधयति तस्याशु तुष्यते नात्र संशयः ॥ यश्चैतत् पठते स्तोत्रं यश्चैतत् शृणुयात्तथा । तस्य विघ्ना न जायन्ते न पापं सर्व्वथा नृप ॥” इत्यादि वाराहे विनायकोत्पत्तिनामाध्यायः ॥ * ॥
विनायकस्य नामाष्टकस्तोत्रं यथा, — श्रीविष्णुरुवाच । “गणेशमेकदन्तञ्च हेरम्बं विघ्ननायकम् । लम्बोदरं सूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ नामाष्टकार्थं पुत्त्रस्य शृणु मत्तो हरप्रिये । स्तोत्राणां सारभूतञ्च सर्व्वविघ्नहरं परम् ॥ ज्ञानार्थवाचको गश्च णश्च निर्व्वाणवाचकः । तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ १ ॥ एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः । बलं प्रधानं सर्व्वस्मादेकदन्तं नमाम्यहम् ॥ २ ॥ दीनार्थवाचको हेश्च रम्बः पालनवाचकः । परिपालकं तं दीनानां हेरम्बं प्रणमाम्यहम् ॥ ३ ॥ विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः । विपत्खण्डनकारन्तं नमामि विघ्ननायकम् ॥ ४ ॥ विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा । पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरञ्च तम् ॥ ५ ॥ शूर्पाकारौ च तत्कर्णौ विघ्नवारणकारणौ । सम्पदास्फालरूपौ च सूर्पकर्णं नमाम्यहम् ॥ ६ ॥ विष्णुप्रसादपुष्पञ्च यन्मूर्द्ध्नि मुनिदत्तकम् । तद्गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ७ ॥ गुहस्याग्रे च जातोऽयमाविर्भूतो हरगृहे । वन्दे गुहाग्रजं देवं सर्व्वदेवाग्रपूजितम् ॥ ८ ॥ एतन्नामाष्टकं दर्गे नामार्थसंयुतं परम् । पुत्त्रस्य पश्य वेदे च तदा कोपं वृथा कुरु ॥ एतन्नामाष्टकं स्तोत्रं नामार्थसंयुतं शुभम् । त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्व्वतो जयी ॥ ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः । गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ पुत्त्राथीं लभते पुत्त्रं भार्य्याथीं विपुलां स्त्रियम् । महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ अस्य कवचं यथा, — नारद उवाच । “संसारमोचनस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः । सर्व्वेषां कवचानाञ्च सारभूतमिदं मुने ॥ ॐ गौँ गैँ श्रीँ गणेशाय स्वाहा मे पातु मस्तकम् । द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु ॥ ॐ ह्रीँ क्लीँ श्री गमिति च सततं पातु लोचनम् । तारकां पातु विघ्नेशः सततं धरणीतले ॥ ॐ ह्रीँ श्रीँ क्लीमिति सततं पातु नासिकाम् । ॐ गौँ गं सूर्पकर्णाय स्वाहा पात्वधरं मम ॥ दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः । ॐ श्रीं लम्बोदरायेति स्वाहा गण्डं सदावतु ॥ ॐ गां गं गजाननायेति स्वाहा स्कन्धं सदा- वतु ॥ श्रीं क्लीं स्त्रीमिति कङ्कालं पातु वक्षःस्थलञ्च गं । पाणौ पादौ सदा पातु सर्व्वाङ्गं विघ्ननिघ्नकृत् ॥ प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः । दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ पश्चिमे पार्व्वतीपुत्त्रो वायव्यां शङ्करात्मजः । कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः । गणाधिपोऽप्यधः पातु सर्व्वपूज्यश्च सर्व्वतः । स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ इति ते कथितं वत्स ! सर्व्वमन्त्रौघविग्रहम् । संसारमोहनं नाम कवचं परमाद्भुतम् ॥ श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले । वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ मया दत्तञ्च तुभ्यञ्च यस्मै कस्मै न दास्यसि । परं वरं सर्व्वपूज्यं सर्व्वसङ्कटतारणम् ॥ गुरुमभ्यर्च्च्य विधिवत् कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ अश्वमेधसहस्राणि राजसूयशतानि च । ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ इदं कवत्तमज्ञात्वा यो भजेच्छङ्करात्मजम् । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे गणेशकवचं नाम १३ अध्यायः ॥ * ॥
अथ विनायकशान्तिः । याज्ञवल्क्य उवाच । “विनायकोपसृष्टस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति । विमना विफलारम्भः स सीदत्यनिमित्ततः ॥ राजा राज्यं कुमारी च पतिं पुत्त्रञ्च गुर्व्विणी । नाप्नुयात् स्वपनन्तस्य पुण्येऽह्नि विधिपूर्ब्बकम् ॥ गौरसर्षपकल्केन सत्येनोत्सारितस्य च । सर्व्वौषधैः सर्व्वगन्वैर्व्विलिप्तशिरसस्तथा ॥ भद्रासनोपविष्टस्य स्वस्तिवाच्य द्विजान् शुभान् । मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलसैर्ह्रदात् । चर्म्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं तथा ॥ सहस्राक्षं शतधारं ऋषिभिः पारणं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ भगन्तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ यत्ते कोषसुसौभाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तत् घ्नन्तु ते सदा ॥ स्नातस्य सार्षपं तैलं श्रुवेणौडम्बरेण तु । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च ॥ मितश्च संमितश्चैव तथा शालकटंकटाः । कुष्माण्डा राजपुत्त्राश्चेत्यन्ते स्वाहासमन्वितैः ॥ दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्य सर्व्वशः । कृताकृतांस्तण्डुलांश्च पललौदनमेव च ॥ पुष्पं चित्रं सुगन्धिञ्च सुराञ्च त्रिविधामपि । मूलकं पूरिका पूपास्तथैवैरण्डिकाः स्रजः ॥ दधि पायसमन्नञ्च गुडपिष्टं समोदकम् । एतान् सर्व्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः । दूर्व्वासर्षपपुष्पैश्च पुत्त्रजन्मभिरन्ततः ॥ कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् । रूपं देहि यशो देहि भगं भगवति देहि मे ॥ पुत्त्रान् देहि श्रियं देहि सर्व्वकामांञ्च देहि मे । ब्राह्मणान् भोजयेत् पश्चात् शुक्लवस्त्रानु- लेपनैः ॥ वस्त्रयुम्मं गुरोर्द्दद्यादासंपूज्य ग्रहांस्तथा । श्रेयःकर्म्मफलं विद्यात् सूर्य्यार्च्चनरतस्तथा ॥” इति गारुडे १०० अध्यायः ॥ * ॥
अथ गणेशमन्त्राः । “पञ्चान्तकं शशिधरं बीजं गणपतेर्विदुः ।” पञ्चान्तको गकारः । ध्यानन्तु गणेशशब्दे द्रष्टव्यम् । अस्य पुरश्चरणं चतुर्लक्षजपः ॥ * ॥
अथ महागणपतिमन्त्रः । निबन्धे । “श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् । ङेऽन्तं गणपतिं पश्चात् वरान्ते वरदं पदम् ॥ उक्त्वा सर्व्वजनं मेऽन्ते वशमानय ठद्वयम् । अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥” भूबीजमाह । “स्मृतिस्थं मांसमौबिन्दुयुक्तं भूबीजभीरितम् ।” स्मृतिर्गकारः । मांसं लकारः ॥ * ॥
अस्य ध्यानम् । “नवरत्नमयं द्वीपं स्मरेदिक्षुरसाम्बुधौ । तद्वीचिधौतपर्य्यन्तं मन्दमारुतसेवितम् ॥ मन्दारपारिजातादिकल्पवृक्षलताकुलम् । उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् । उद्यद्दिनकरेन्दुभ्यामुद्भाषितदिगन्तरम् ॥ तस्य मध्ये पारिजातं नवं रत्नमयं स्मरेत् ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनम् ॥ तस्याधस्तात् महापीठे रचिते मातृकाम्बुजे । षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ॥ हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा- दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्गस्यया सन्ततम् । वीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्- पलं व्रीह्यग्रस्वविषाणगण्डकलसान् हस्तैर्व्वहन्तं भजे ॥ गण्डपाणिगलद्दानपूरलालसमानसान् । द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ॥ कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः । रत्नवर्षैः प्रीणयन्तं साधकं मदविह्वलम् ॥ माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ॥” अस्य पुरश्चरणं चतुर्लक्षजपः ॥ * ॥
अपि च । “शक्तिरुद्धनिजं बीजं महागणपतिं वदेत् । ङेऽन्तमग्निबधूप्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥” अस्य ध्यानम् । “मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रं हस्तैः स्वीयैर्दधतमरविन्द्बङ्कुशौ रत्नकुम्भम् । अङ्कस्थायाः सरसिजरुचेस्तद्ध्वजालम्बिपाणे- र्देव्या योनौ विनिहितकरं रत्नमौलिं भजामि ॥” अस्य पुरश्चरणं लक्षजपः ॥ * ॥
मन्त्रान्तरम् । “शक्तिरुद्धं निजं बीजं वशमानय ठद्वयम् । ताराद्यो मनुराख्यातो रुद्रसंख्याक्षरान्वितः ॥” अस्य ध्यानम् । “हस्तैर्विभ्रतमिक्षुदण्डवरदौ पाशाङ्कुशौ पुष्कर- स्पृष्टस्वप्रमदावराङ्गमनयाश्लिष्टं ध्वजाग्रस्पृशा । श्यामाङ्ग्या विधृताब्जया त्रिनयनं चन्द्रार्द्धचूडं जवा- रक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुम् ॥” अस्य पुरश्चरणं लक्षत्रयजपः ॥ * ॥
अथ हेरम्ब- मन्त्रः । स च ऊकारयुक्तो गकारः सबिन्दुः प्रणवादिनमोऽन्तश्चतुरक्षरः । निबन्धे । “पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः । तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः । चतुर्वर्णात्मको नॄणां चतुर्व्वर्गफलप्रदः ॥” अस्य ध्यानम् । “मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा- न्वितै- र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् । दृप्तं दानमभीतिमोदकरदान् टङ्के शिरोऽक्षा- त्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्द्दधानं भजे ॥” अस्य पुरश्चरणं त्रिलक्षसंख्यकजपः ॥ * ॥
मन्त्रा- न्तरम् । गं क्षिप्रप्रसादनाय हृत् । तथा च निबन्धे । “संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः । प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥” अस्य ध्यानम् । “पाशाङ्कुशौ कल्पलतां विषाणं दधत् स्वशुण्डाहितबीजपूरः । रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि- र्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥” अस्य पुरश्चरणं लक्षजपः ॥ * ॥
अथ हरिद्रा- गणेशमन्त्रः । “पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः । एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥” ध्यानन्तु । “हरिद्राभं चतुर्ब्बाहुं हारिद्रवसनं विभुम् । पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥” अस्य पुरश्चरणं चतुर्लक्षजपः । इति तन्त्र- सारः ॥ * ॥
(पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७१ । “करवीरे महालक्ष्मीरुमादेवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥” विगतो नायको यस्येति विग्रहे अनाथे, त्रि ॥)



Correction: