वाचस्पत्यम्
विनियोग || पु० वि + नि—युज—घञ् । क्रियासु प्रवर्त्तने “ल- नेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः इत्युक्ते २ अनु- ष्टानक्रमविष्ठाने च “आर्षं छन्दश्च देवत्य विनियोगस्त- थैव चेति” योगियाज्ञ० ।
शब्दकल्पद्रुमः
विनियोगः || पुं, (वि + नि + युज् + घञ् ।)
फले अर्पणम् । इति हेमचन्द्रः ॥ विनियोजनम् । यथा, —
“अनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः ॥” इत्याह्निकतत्त्वम् ॥ (यथा, सन्ध्याविधौ । “ॐकारस्य ब्रह्मऋषिर्गायत्त्रीच्छन्दः सविता देवता प्राणायामे विनियोगः ॥”)