वाचस्पत्यम्
विनोद || पु० वि + नुद—घञ् । १ कौतूहले हला० । २ क्रोडायां ३ खण्डने च । ४ गृहभेदे “दीर्घे त्रयोदशहस्ताः प्रमा- रतो द्वौ प्रथितौ । विनोद एष द्वाराणि त्रिंशत्कोष्ठ- द्वयं भवेत्” युक्तिक० ।
शब्दकल्पद्रुमः
विनोदः || पुं, (वि + नुद + घञ् ।)
कौतूहलम् । इति हलायुधः ॥ (यथा, कथासरित्सागरे । १५ । १२५ । “वाधते तञ्च नैकव्यात् सर्व्वं स मगधेश्वरः । तत्तत्र रक्षाहेतोश्च विनोदायतनस्य ताम् ॥”)
क्रीडा । इति भूरिप्रयोगः ॥ (यथा, भाग- वते । ३ । १६ । २४ । “नैतावता त्र्यधिपतेर्वत विश्वभर्त्तु- स्तेजःक्षत तव न तस्य स ते विनोदः ॥” अपनयनम् । यथा, शिशुपालवधे । १ । ४८ ॥ “विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ॥” प्रमोदः । यथा, हितोपदेशे । “काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥”)
आलिङ्गनविशेषः । तल्लक्षणं यथा । नायको नायिकाया दक्षिणपादं वामपादं वा स्वमध्य- देशे स्वदक्षिणपादं वामपादं वा नायिकामध्य- देशे निधाय वक्षसि वक्षः ओष्ठे ओष्ठं दत्त्वा यदाश्निषति तत् । इति कामशास्त्रम् ॥ राज- गृहविशेषः । यथा, —
“दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ । विनोद एव द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥” इति युक्तिकल्पतरुः ॥ “द्वादशैते गृहान् वक्ष्ये तेषां लक्षणमग्रतः । सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ॥ विनोदश्च विलासश्च विजयो विमलस्तथा । रङ्गः केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥” इति भविष्योत्तरपुराणम् ॥