वाचस्पत्यम्
विन्यास || पु० वि + नि + अस—घञ् १ स्थापने २ रचने तन्त्रोक्ते मन्त्राद्युच्चारणपूर्वकं हृदयादिषु अङ्गुल्यादीनां अर्पण- भेदे च ।
शब्दकल्पद्रुमः
विन्यासः || पुं, (वि + नि + अस + घञ् ।)
स्थाप- नम् । रचनम् । यथा, ज्ञानार्णवे । वैष्णवे तु । “एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् । नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥” अपि च । “ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्ज्जितः । पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥” इति भट्टः । इति तन्त्रसारः ॥ अन्यच्च । “गृहेषु मणिविन्यासो विज्ञेयो न च दण्डवत् । विशुद्धहीरकन्यासो विधेयः सदनोपरि । तेन सर्व्वाणि नश्यन्ति अरिष्टानि मही- भुजाम् ॥” इति युक्तिकल्पतरुः ॥ किञ्च । “तया कवितया किवा तया वनितया च किम् । पदविन्यासमात्रेण यया नापहृत मनः ॥” इत्युद्भटः ॥