वाचस्पत्यम्
विपणि(णी) || पुंस्त्री० वि + पण—इन् स्त्रीत्वपक्षे वा ङीप् । १ पण्यविक्रयशालायाम् (हाटचाला) २ हट्टे च अमरः । क्रये मेदि० ।
शब्दकल्पद्रुमः
विपणिः || पुं स्त्री, (विपण्यतेऽस्मिन्निति । वि + पण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
पण्यविक्रयशाला । इति हला- युधः ॥ हट्टः । इत्यन्ये । विक्रयार्थप्रसारित- नानाद्रव्यायां बणिग्वीथ्यां वाणियाविथी इति वाजार इति च ख्यातायामिति केचित् । हट्टमण्डपः । इति केचित् । हट्टमध्यस्थपण्य- विक्रयवीथी । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । पण्यवीथिका २ । इत्यमरः ॥ आपणः ३ पण्यवीथी ४ पण्यम् ५ । इति रभसः ॥ निषद्या ६ बणिक्पथम् ७ । इत्यमर- दत्तः ॥ विपणम् ८ वीथी ९ । इति कोषः ॥ “निषद्या विपणिः पण्यवीथिका त्वापणिस्तथा । पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥” इति शब्दरत्नावली ॥ “विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ।” इति मेदिनी । णे, ७८ ॥ (यथा, महाभारते । ९ । ३५ । ३० । “विपण्यापणपण्यानां नानाजनशतैर्व्वृतः ॥” बाणिज्यम् । यथा, मनौ । १० । ११६ । “विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्ष्यं कुसीदञ्च दश जीवनहेतवः ॥”)