वाचस्पत्यम्
विपदा is an alternate of विपद्. विपद्(दा) || स्त्री वि + पद—सम्प० क्विप् वा टाप् । १ विपत्तौ ज्यो० उक्ते जन्मतारातः तृतीयद्वादशैकविंशतिसंख्याक नक्षत्रे च “विपत्तारे गुडंदद्यात्” ज्यो० त० ।
शब्दकल्पद्रुमः
विपदा || स्त्री (विपद् + भागुरिमते हलन्तानां टाप् ।)
विपत् । इत्यमरटीकायां रायमुकुटः ॥