संस्कृत-शब्दकोशः

विप्रचित्ति विप्रतिपन्न

विप्रतिपत्ति

वाचस्पत्यम्

विप्रतिपत्ति ||‍ स्त्री वि + प्रति + पद—क्तिन् । १ विरोधे “पर० स्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु” स्मृतिः । २ संशयजनके वाक्ये “व्याहतमेकार्थकं विप्रतिपत्तिः” गौ० सू० व्याघातो विरोधोऽसहभाव इति । आत्माऽ- स्तीत्येव दर्शनं नास्त्यात्मेत्यपरः” वा० भ० । ३ विरुद्ध- कोटिद्वयोपस्थापके शब्दे च वादिना पर्वतो वह्निमान् प्रतिवादिना च पर्वतो वह्न्यभाववान् इति प्रति- ज्ञाते मध्यस्थस्य पर्वतो वह्निमान् नवेति संशय उदेति अतस्तस्य संशयाधायकत्वात्तथात्वम् । स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्निमा- न्नवेति संशयापादकः । “विपरीतायां निन्दितायां च ४ प्रतिपत्तौ ५ विकृतावनूहे च “शब्देऽविप्रतिपत्तिः” कात्या० श्रौ० अप्रतिपत्तिरनूहः” प्रतिनिधिशब्दे ४४४३ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विप्रतिपत्तिः || स्त्री (वि + प्रति + पद + क्तिन् ।)
विरोधः । यथा, —
“परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यान्न्यायाद्व्यवस्थान व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृद्धिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥” इति मिताक्षरायां व्यवहारमातृका ॥ * ॥
विकृतिः । यथा प्रथमाध्याये कात्यायनसूत्रम् । शब्देऽविप्रतिपत्तिरिति । प्रतिनिहितद्रव्ये श्रुत- शब्दः प्रयोज्यः । श्रुतद्रव्यबुद्ध्या प्रतिनिध्युपादा- नात् शब्दान्तरप्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात् । इत्येकादशीतत्त्वम् ॥ (अन्यथाभावः । अरिष्ट- विशेषः । यथा, सुश्रुते । १ । ३० । “अथातः पञ्चे- न्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ।” एवं छायाविप्रतिपत्तिः । स्वभावविप्रति- पत्तिः ॥)



Correction: