वाचस्पत्यम्
विप्रति(ती)सार || पु० वि + प्रति + सृ—घञ् वा दीर्थ । १ अनु- तापे, अनुशये, २ रोषे च मेदि० ।
शब्दकल्पद्रुमः
विप्रतिसारः || पुं, (वि + प्रति + सृ + घञ् ।)
विप्रतीसारः । इत्यमरटीकायां रायमुकुटः ॥ (यथा, शिशुपालधधे । १० । २० । “प्रापि चेतसि स विप्रतिसारे सुभ्रुवामवसरः सरकेण ॥” “विप्रतिसारे पश्चात्तापयुक्ते । पश्चात्तापोऽनुता- पश्च विप्रतीसार इत्यपि । इत्यमरः ।” इति तट्टीकायां मल्लिनाथः ॥)