वाचस्पत्यम्
विप्रश्निका || स्त्री विशेषेण प्रश्नायस्याः ५ ब० कप् अत इत्त्वम् । दैवज्ञाया स्त्रियाम् अमरः ।
शब्दकल्पद्रुमः
विप्रश्निका || स्त्री (विविधः प्रश्नोऽस्त्यस्या इति । विप्रश्न + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) दैवज्ञा । इत्यमरः ॥