वाचस्पत्यम्
विबन्ध || पु० विबन्धाति मलस् वि + बन्ध—अच् । मलबन्धकारके रोगभेदे अमरः ।
शब्दकल्पद्रुमः
विबन्धः || पुं, आनाहरोगः । इत्यमरः ॥ तस्य चिकित्सा । “तुल्यकारणकार्य्यत्वात् उदावर्त्तहरीं क्रियाम् । आनाहेऽपि च कुर्व्वीत विशेषश्चाभिधीयते ॥ त्रिवृत्कृष्णा हरीतक्यो द्बिचतुःपञ्चभागिकाः । गुडेन तुल्या वटिका हरन्त्यानाहमुल्वणम् ॥ वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः । मधुनि गुडेवा पक्वैर्निहिता स्वाङ्गुष्ठपरिमाणा ॥ वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृता- भ्यक्ते । आनाहोदाषर्त्तौ शमयति जठरं तथा गुल्मम् ॥” त्रिकटुकाद्या वर्त्तिः । इति भावप्रकाशः ॥ (विशेषेण बन्धः । विशेषबन्धनम् । यथा, महा- भारते । ८ । १४० । ४४ । “पादोदरविबन्धैश्च भूमावुद्भ्रमणैस्तथा ॥”)