वाचस्पत्यम्
विभिन्न || त्रि० वि + भद—क्त । १ प्रकाशिते २ विदलिते ३ विभक्ते च ।
शब्दकल्पद्रुमः
विभिन्नः || त्रि (वि + भिद् + क्तः ।)
विभक्तः । विदीर्णः । यथा, —
“गदापरशुखड्गैश्च चक्रतोमरशायकैः । विभिन्ने वेदना या हि क्षुधया सापि निर्ज्जिताः ॥” इति इतिहाससमुच्चयः ॥ (विघट्टितः । यथा, शिशुपालवधे । १ । ५५ । “विभिन्नशङ्खः कलुषीभवन्मुहु- र्म्मदेन दन्तीव मनुष्यधर्म्मणः ॥”)