संस्कृत-शब्दकोशः

विभीषण विभु

विभीषिका

वाचस्पत्यम्

विभीषिका ||‍ स्त्री वि + भी—णिच्—सुक् च धात्वर्थनिर्देशे ण्वुल् । भयप्रदर्शने


शब्दकल्पद्रुमः

विभीषिका || स्त्री (विभीषा + स्वार्थे कन् । स्त्रियां टाप् अत इत्वञ्च ।)
भयप्रदर्शनम् । यथा, —
“कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजाः मथ्नन्तो विटजल्पितैरुपहताः क्षौणीभुजस्ते ऽखिलाः । विद्वांसोऽपि वयं परं त्रिजगतां सर्गस्थिति- व्यापदा- मीशस्तत्परिचर्य्यया न गणितो यैरेष नारा- यणः ॥” इति शान्तिशतकम् ॥



Correction: