वाचस्पत्यम्
विमनस्क is an alternate of विमनस्. विमनस्(स्क) || त्रि० विक्षिप्तं मनो यस्य वा कप् । चिन्तादिना व्याकुलचित्ते अमरः ।
शब्दकल्पद्रुमः
विमनस्कः || त्रि विमनाः । विनिगृहीतं मनोऽस्येति बहुव्रीह्यर्थे कप्रत्ययेन निष्पन्नः ॥ (यथा, भाग- वते । ७ । १० । ६१ । “विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ॥”)