संस्कृत-शब्दकोशः

विमलार्थक विमातृज

विमातृ

वाचस्पत्यम्

विमातृ ||‍ स्त्री विरुद्धा माता । मातृसपत्न्याम् । “मातुः पितुः कनीयांसं न नमेद्वयसाधिकः । नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमातरम्” म० त० स्मृतिः । तत्रैव स्मृत्यर्यसारे “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः” । “यतः पत्युर्वयसा ताः स्त्रियो वृद्धाः अतः कनिष्ठा अपि अपि नमस्याः” म० त० रघु०


शब्दकल्पद्रुमः

विमाता || [ऋ] स्त्री, (विरुद्धा माता ।)
मातृ- सपत्नी । सत्मा इति भाषा । सा कनीयस्यपि नमस्या । यथा, स्मृतिः । “मातुः पितुः कनीयांसं न नमेद् वयसाधिकः । नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमा- तरम ॥” स्मृत्यर्थसारे । “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥” यतः पत्युर्व्वयसा तास्त्रियो वृद्धा अतः कनिष्ठा अपि नमस्याः । इति मलमासतत्त्वत् ॥ * ॥
विमातृरजोनिवृत्तावपि पितामहधनविभाग- कर्त्तव्यत्वम् । यथा बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अत्र मातृपदं विमातृपरमपि पुत्त्रान्तरोत्पत्ति- सम्भावनातौल्यात् । इति दायतत्त्वम् ॥ * ॥
अस्या अनंशित्वं यथा । सोदरभ्रातृभिर्विभागे क्रियमाणे मात्रे पुत्त्रसमांशो दातव्यः । समांश- हारिणी माता इति वचनात्मातृपदस्य जननी- परत्वात् न सपत्नीमातृपरत्वमपि । सकृच्छ्रुतस्य मुख्यगौणत्वानुपपत्तेः । इति दायभागः ॥



Correction: