संस्कृत-शब्दकोशः

विम्बिका विम्बु

विम्बी

वाचस्पत्यम्

विम्बी is an alternate of विम्बा. विम्बा(म्बी) ||‍ स्त्री विम्बमस्त्यस्याः अच् वा गौरा० ङीष् । (तेलाकुचा) १ लताभेदे शब्दर० “विम्बीफलं भ्वादु शातं गुरु पित्तास्रवातजित् । स्तम्भनं लेखनं रुच्य विबन्धा- ध्मानकारकम्” भावप्र० । स्वार्थे क कापि अत इत्त्वम तत्रार्थे । सूर्य्यदिमण्डले पु० न० नात इत्त्वम् ।


शब्दकल्पद्रुमः

वि(बि)म्बी || स्त्री (विम्ब + गौरादित्वात् ङीष् ।)
बिम्बिका । इति शब्दरत्नावली ॥ (यथा, —
“काकादनीं चित्रफलां विम्बीं गुञ्जाश्च धारयेत् ॥” इति सुश्रुते उत्तरतन्त्रे ३२ अध्यायः ॥)



Correction: