संस्कृत-शब्दकोशः

वियच्चारिन् वियद्गङ्गा

वियत्

वाचस्पत्यम्

वियत् ||‍ न० वि + यम—क्विप् मलोपे तुक् । आकाशे अमरः ।


शब्दकल्पद्रुमः

वियत् || क्ली (वियच्छति न विरमतीति । वि + यम + “अन्येभ्योऽपि दृश्यते ।” ३ । २ । १७८ । इति क्विप् । क्वौ चगमादीनामिति मलोपे तुक् ।)
आकाशम् । इत्यमरः ॥ (यथा, भागवते । ३ । ८ । ३३ । “तर्ह्येव तन्नाभिसरःसरोज- मात्मानमम्भः श्वसनं वियच्च । ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥” द्यवापृथिव्यौ । अत्र द्बिवचनस्य प्रयोगः स्यात् । यथा, तैत्तिरीयब्राह्मणे । १ । १ । ३ । २ । “द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् ॥” तथाच शतपथब्राह्मणे । ७ । १ । २ । २३ । “तयोर्वियत्योर्योऽन्तरेणाकाश आसीत् तदन्त- रिक्षमभवत् ॥” * ॥
वि + या + शतृ । गमन- शीले, त्रि । यथा, भागवते । ७ । ६ । १४ । “कुटुम्बपोषाय वियन्निजायु- र्न बुध्यतेऽर्थं विहतं प्रमत्तः ॥” तथा, तत्रैव । ९ । २१ । ३ । “वियद्बित्तस्य ददतो लब्धं लब्धं बुभूषतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः । व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ॥” “वियद्वित्तस्य वियतो गगनादिव उद्यमं विनैव दैवादुपस्थितं वित्तं भोग्यं यस्य । यद्वा वियत् व्ययं प्राप्नुवद्वित्तं भोग्यं यस्य ।” इति तट्टीकायां श्रीधरस्वामी ॥)



Correction: