संस्कृत-शब्दकोशः

विरजस्का विरजा

विरजस्तमस्

वाचस्पत्यम्

विरजस्तमस् ||‍ त्रि० विगते रसस्तमसी यतः । सत्त्वगुणप्रधाने अमरः ।


शब्दकल्पद्रुमः

विरजस्तमाः || [स्] पुं, सत्त्वगुणविशिष्टः । तत्- पर्य्यायः । द्बयातिगः २ । इत्यमरः । २ । ७ । ४५ ॥ “विगते रजस्तमसी येषां ते रजस्तमोगुणशून्याः सत्त्वैकनिष्ठाः साक्षात्कृतब्राह्मणो जीवन्मुक्ता व्यासादयो द्वयातिगा उच्यन्ते । द्वयं द्वैतं अति- क्रम्य गच्छति इति डः ।” इति भरतः ॥



Correction: