वाचस्पत्यम्
विराव || पु० वि + रु—घञ् । १ शब्दे अमरः । पादि० ६ व० । २ विगतरवे त्रिका० ।
शब्दकल्पद्रुमः
विरावः || पुं, (वि + रु + घञ् ।)
शब्दः । इत्य- मरः ॥ (यथा, महाभारते । ३ । १४६ । ६४ ॥ “सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ! । मुक्तो विरावः सुमहान् पर्व्वतो येन पूरितः ॥” इल्वलप्रदत्ताश्वान्यतरः । यथा, महाभारते । ३ । ९९ । १७ । “विरावश्च सुरावश्च तस्मिन् युक्तौ रथे हयौ ॥”)