संस्कृत-शब्दकोशः

विरूपा विरूपिका

विरूपाक्ष

वाचस्पत्यम्

विरूपाक्ष ||‍ पु० विरूपे विकटे अक्षिणी यस्य षच् समा० । १ महादेवे अमरः । २ विकटनेत्रे त्रि० ।


शब्दकल्पद्रुमः

विरूपाक्षः || पुं, (विरूपे अक्षिणी यस्य । “सक्- थ्यक्ष्णोः स्वाङ्गात् षच् ।” इति षच् ।)
शिवः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्तास्तुमो वामलोचनाः ॥”)
रुद्रभेदः । इति जटाधरः ॥ तस्य पुरी सुमेरो- र्नैरृतकोणे वर्त्तते । यथा, —
“तथा चतुर्थे दिग्भागे नैरृताधिपतेः श्रुता । नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥” इति वाराहे रुद्रगीता ॥ (विरूपे, त्रि । यथा, कुमारे । ५ । ७२ । “वपुर्व्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ॥”)



Correction: