वाचस्पत्यम्
विरोक || पु० न० वि + रुच—घञ् चस्य कः । १ छिद्रे त्रिका० । २ सूर्य्यकिरणे पु० हेमच० ।
शब्दकल्पद्रुमः
विरोकं || क्ली (वि + रुच् + घञ् । कुत्वम् ।)
छिद्रम् । इति त्रिकाण्डशेषः ॥ (यथा, माघे । ५ । ५४ । “नासाविरोकपवनोन्नमितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥”)
सूर्य्यकिरणे, पुं । इति हलायुधः ॥ (प्रातः- कालः । यथा, ऋग्वेदे । ३ । ५ । २ । “पूर्ब्बीरृतस्य संदृशश्चकानः संदूतो अद्यौ दुषसो विरोके ॥” “विरोके विरोचने प्रातःकाले ।” इति तद्भाष्ये सायणः ॥)