संस्कृत-शब्दकोशः

विरोध विरोधाभास

विरोधन

वाचस्पत्यम्

विरोधन ||‍ न० वि + रुध—ल्युट् । वैरे अमरः ।


शब्दकल्पद्रुमः

विरोधनं || क्ली (वि + रुध + ल्युट् ।)
विरोधः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ५६ । १६९ । “ईदृक्पापफलं पुत्त्र मातापित्रोर्विरोधनम् ॥” नाशः । यथा, रामायणे । २ । ३६ । २९ । “अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च । निर्द्दहेदपि शक्रस्य द्युतिं धर्म्मविरोधनात् ॥” नाटकोक्तविमर्षाङ्गान्यतमः । यथा, साहित्य- दर्पणे । ६ । ३७८ । “शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् ॥” तल्लक्षणादिकं यथा, तत्रैव । ३८७ । “कार्य्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥”)



Correction: