वाचस्पत्यम्
विरोधोक्ति || स्त्री वरवचनविरोधिवचने अमरः ।
शब्दकल्पद्रुमः
विरोधोक्तिः || स्त्री (विरोधस्य उक्तिः ।) पर- वचनविरोधिवचनम् । तत्पर्य्यायः । विप्रलापः २ विरोधवाक् ३ क्रोधोक्तिः ४ प्रलापः ५ । इति शब्दरत्नावली ॥