वाचस्पत्यम्
विलोमजिह्व || पुंस्त्री० विलोमा विपरीता जिह्वा यस्य । गजे त्रिका० स्त्रियां ङीष् । तस्य तथात्वकथा भा० आनु० ८५ अ० यथा “इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् । परी- युर्ज्वलनस्यार्थे न चाविन्दन् हुताशनम् । अथ तान् द्विरदः कश्चित् सुरेन्द्रद्विरदोपमः । अश्वथस्थोऽग्नि- रित्येवमाह देवान् भृगूद्वह! । शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूर्च्छत । प्रतीपा भवतां जिह्वा भवि- त्रीति भृगूद्वह!” ।
शब्दकल्पद्रुमः
विलोमजिह्वः || पुं, (विलोमा जिह्वा यस्य ।)
हस्ती । इति त्रिकाण्डशेषः ॥