विलोमी
विल्ल
विलोल
वाचस्पत्यम्
विलोल || त्रि० वि + लुल—अच् । १ चञ्चले २ विशेषसतृष्णे च ।
शब्दकल्पद्रुमः
विलोलः || त्रि (विशेषेण लोलः ।)
चञ्चलः । यथा, —
“कापि विलासविलोलविलोचनखेलनजनित- मनोजम् । ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरो- जम् ॥” इति श्रीगीतगोविन्दे । १ । ४२ ॥