संस्कृत-शब्दकोशः

विवरनालिका विवर्त

विवर्ण

वाचस्पत्यम्

विवर्ण ||‍ त्रि० विरुद्धो वर्णोऽस्य । १ अधमे २ नीचे च अमरः ३ मलिने च ।


शब्दकल्पद्रुमः

विवर्णः || पुं, (विरुद्धो वर्णः ।)
नीचः । इत्य- मरः । २ । १० । १६ ॥ (यथा, मार्कण्डेये । ४१ । १० । “भैक्षचर्य्यव विवर्णेषु जघन्या वृत्तिरिष्यते ॥” त्रि, विकृतो वर्णो यस्य ।)
मलिनः ॥ (यथा, रामायणे । २ । २६ । ८ । “विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् । आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥”)



Correction: