वाचस्पत्यम्
विवीत || पु० विशिष्टं वीतं गवादिप्रचारस्थानं यत्र । प्रचुर- तृणषासादियुक्ते देशे । “पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते” याज्ञवल्क्यस्मृतिव्याख्याने मिताक्षराकृत् ।
शब्दकल्पद्रुमः
विवीतः || पुं, भूमिविशेषः । यथा, —
“सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् । विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः तदुपघातेऽपीतरक्षेत्रसमं दण्डं एषां महिष्यादीनां विद्यात् । इति मिताक्षरायां स्वामिपालविवादप्रकरणम् ॥