वाचस्पत्यम्
विंशति || स्त्री द्वे दशती नि० । १ द्विदशकसंख्यायां, तत्सङ्ख्यात च नित्यैकव० । सङ्ख्याविशेषार्थ, तु द्वि० ब० द्व० । द्वे विंशती त्रिम्नो विंशतयः इति ।
शब्दकल्पद्रुमः
विंशतिः || स्त्री (द्वौ दश परिमाणस्य पक्तिविंश- तीति निपातनात् सिद्धम् ।)
संख्याविशेषः । विष इति कुडि इति च भाषा । यथा, —
“विंशत्याद्याः सदैकत्वे सर्व्वा संख्येयसंख्ययोः । संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥” इत्यमरः ॥ तद्वाचकानि । रावणबाहुः १ । अङ्गुलिः २ । इति कविकल्पलता ॥ नखम् ३ । इति सत्कृत्य- मुक्तावली ॥