संस्कृत-शब्दकोशः

विशल्यकृत् विशंवरा

विशल्या

वाचस्पत्यम्

विशल्या ||‍ स्त्री विगतं शल्यं तत्प्रहारवेदना यस्याः ५ व० । १ अग्निशिखवृक्षे २ दन्तीवृक्षे ३ गुडूच्याम् अमरः ४ त्रि- पुट्याम् ५ अजमोदायाञ्च राजनि० ।


शब्दकल्पद्रुमः

विशल्या || स्त्री (विगतं शल्यन्तत्प्रहारादिजनित- वेदनादिनाशो यया ।)
गुड्रची । (अस्याः पर्य्यायो यथा, —
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी । छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥ जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिका धीरा विशल्या च रसायनी ॥ चन्द्रहासी वयःस्था च मण्डली देवनिर्म्मिता ॥” इति भावप्रकाशस्य पुर्व्वखण्डे १ भागे ॥)
अग्निशिखावृक्षः । (अस्याः पर्य्यायो यथा, —
“कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि । विशल्याग्निशिखानन्ता वह्निवक्त्वा च गर्भनुत् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे १ भागे ॥)
दन्ती इत्यमरः ॥ (अस्याः पर्य्यायो यथा, — गुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि । तथैरण्डफला शीघ्रा श्येनघण्टाघुणप्रिया ॥ वारहासी च कथिता निकुम्भश्च मकूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
त्रिपुटा । इति मेदिनी ॥ कलिकारी । अज- मोदा । इति राजनिर्घण्टः ॥ (नदीविशेषः । यथा, महाभारते । २ । ९ । २० । “किम्पुना च विशल्या च तथा वैतरणी नदी ॥”)



Correction: